|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.1. अध्यायः 001
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
गङ्गायां भीष्मायोदकदानानन्तरं बन्धुशोकविषण्णं युधिष्ठिरंप्रति धृतराष्ट्रेण समाश्वासनम्॥ 1 ॥ तथा विदुरवचनानादरेण स्वस्यैतादृशानर्थप्राप्तिकथनम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
श्रीवेदव्यासाय नमः।
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 14-1-1(92367)
वैशम्पायन उवाच। 14-1-2x(7730)
कृतोदकस्तु राजानं धृतराष्ट्रं युधिष्ठिरः।
पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः॥ 14-1-2(92368)
उत्तीर्य तु महाबाहुर्बाष्पव्याकुललोचनः।
पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः॥ 14-1-3(92369)
तं सीदमानं जग्राह भीमः कृष्णेन चोदितः।
मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः॥ 14-1-4(92370)
तमार्तं पतितं भूमौ श्वसन्तं च पुनः पुनः।
तदृशुः पार्थिवा राजन्धर्मपुत्रं युधिष्ठिरम्॥ 14-1-5(92371)
त दृष्ट्वा दीनमनसं गतसत्वं नरेश्वरम्।
भूयः शोकसमाविष्टाः पाण्डवाःक समुपाविशन्॥ 14-1-6(92372)
राजा तु धृतराष्ट्रस्तं तथा दीनो महाभुजम्।
वाक्यमाह महाबुद्धिः प्रज्ञाचक्षुर्नरेश्वरम्॥ 14-1-7(92373)
उत्तिष्ठ कुरुशार्दूल कुरु कार्यमनन्तरम्।
क्षत्रधर्मेण कौन्तेय जितेयमवनी त्वया॥ 14-1-8(92374)
भुङ्क्ष सार्धं भ्रातृभिस्तां सुहृद्भिश्च जनेश्वर।
शोचितव्यं न पश्यामि त्वया धर्मभृतांवर॥ 14-1-9(92375)
शोचितव्यं मया चैव गान्धार्या च महीपते।
ययोः पुत्रशतं नष्टं स्वप्नलब्धं यथा धनम्॥ 14-1-10(92376)
अश्रुत्वा हितकामस्य विदुरस्य महात्मनः।
वाक्यानि सुमहार्थानि परितप्यामि दुर्मतिः॥ 14-1-11(92377)
उक्तवान्विदुरो यन्मां धर्मात्मा दिव्यदर्शनः।
दुर्योधनापराधेन कुलं ते विनशिष्यति॥ 14-1-12(92378)
स्वस्ति चेदिच्छसे राजन्कुलस्य कुरु मे वचः।
वध्यतामेष दुष्टात्मा मन्दो राजा सुयोधनः॥ 14-1-13(92379)
कर्णश्च शकुनिश्चैव नैनं पश्यतु कर्हिचित्।
द्यूतसङ्घातमप्येषामप्रमादेन वारय॥ 14-1-14(92380)
अभिषेचय राजानं धर्मात्मानं युधिष्ठिरम्।
स पालयिष्यति वशी धर्मेण पृथिवीमिमाम्॥ 14-1-15(92381)
अथ नेच्छसि राजानं कुन्तीपुत्रं युधिष्ठिरम्।
`विनाशमुपयास्तन्ति तव पुत्रा न संशयः।'
मेढीभूतः स्वयं राज्यं प्रतिगृह्णीष्व पार्थिव॥ 14-1-16(92382)
समं सर्वेषु भूतेषु वर्तमानं नराधिप।
अनुजीवन्तु सर्वे त्वां ज्ञातयो ज्ञातिवर्धंन॥ 14-1-17(92383)
एवं ब्रुवति कौन्तेय विदुरे दीर्घदर्शिनि।
दुर्योधनमहं पापमन्ववर्तं वृथामतिः॥ 14-1-18(92384)
अश्रुत्वा तस्य धीरस्य वाक्यानि मधुराण्यहम्।
फलं प्राप्य महद्दुःखं निमग्नः शोकसागरे॥ 14-1-19(92385)
वृद्धौ हि तेऽद्य पितरौ पश्य नौ दुःखितौ नृप।
न शोचितव्यं भवता पश्यामीह जनाधिप॥ ॥ 14-1-20(92386)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि प्रथमोऽध्यायः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-1-1 कृतोदकं त्विति झ.पाठः॥ 7-1-2 उत्ततार गङ्गात इति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|